५.४.२

लोकस्य पापानि विनाशयन्तं; महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुमथाभियान्तम् ॥

अन्वयः

लोकस्य world's, पापानि agony, विनाशयन्तम् warding off, महोदधिम् great ocean, समेधयन्तं चापि augmenting the ocean even, सर्वाणि all, भूतानि creatures, विराजयन्तम् illuminating, अभियान्तम् moving forward (the earth, space and sky), शीतांशुम् Moon, ददर्श saw.

Summary

While moving forward, Hanuman saw the Moon spreading his light, thereby warding off the agony of all creatures, causing the swelling of the ocean and illuminating the earth as well as the sky.

पदच्छेदः

लोकस्यलोक (६.१)
पापानिपाप (२.३)
विनाशयन्तंविनाशयत् (√वि-नाशय् + शतृ, २.१)
महोदधिंमहत्–उदधि (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
समेधयन्तम्समेधयत् (√सम्-एधय् + शतृ, २.१)
भूतानिभूत (२.३)
सर्वाणिसर्व (२.३)
विराजयन्तंविराजयत् (√वि-राजय् + शतृ, २.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
शीतांशुम्शीतांशु (२.१)
अथाभियान्तम्अथ (अव्ययः)–अभि (अव्ययः)–यद् (२.३)–तद् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
लोस्य पा पानिवि ना न्तं
हो धिं चापि मे न्तम्
भू तानि र्वाणिवि रा न्तं
र्श शी तांशु थाभि या न्तम्