५.४०.२९

तस्य संनादशब्देन तेऽभवन्भयशङ्किताः ।
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥

अन्वयः

ते they, तस्य his, सन्नादशब्देन with the sound of hearing, भयशङ्किता: errified, अभवन् seemed, सन्ध्यामेघमिव like a cloud in twilight, उन्नतम् towering, हनूमन्तम् Hanuman, ददृशुश्च saw.

M N Dutt

They were struck with affright at his roars; and they beheld Hanumān elevated as an evening cloud.

Summary

Terrified on hearing the roar, the kinkaras looked at the towering Hanuman who seemed like a cloud in twilight (red in colour).

पदच्छेदः

तस्यतद् (६.१)
संनादशब्देनसंनाद–शब्द (३.१)
तेतद् (१.३)
ऽभवन्अभवन् (√भू लङ् प्र.पु. बहु.)
भयशङ्किताःभय–शङ्कित (√शङ्क् + क्त, १.३)
ददृशुश्चददृशुः (√दृश् लिट् प्र.पु. बहु.)–च (अव्ययः)
हनूमन्तंहनुमन्त् (२.१)
संध्यामेघम्संध्या–मेघ (२.१)
इवोन्नतम्इव (अव्ययः)–उन्नत (√उत्-नम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य सं ना ब्दे
तेऽभन्भङ्कि ताः
दृ शुश्च नू न्तं
सं ध्या मेमि वोन्न तम्