५.४०.३५

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।
निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन् ॥

अन्वयः

ततः then, तत्र that, तस्मात् from fear, भयात् out of fear, मुक्ताः relieved, कतिचित् some, राक्षसाः ogres, सर्वान् all, किङ्करान् kinkaras, निहतान् killed, रावणाय to Ravana, न्यवेदयन् reported.

M N Dutt

Then certain Räkşasas, getting off from the field in fear, informed Rāvana of the destruction of all his servants.

Summary

Then a few surviving ogres took to their heels after getting over that shock and reported to Ravana of the destruction of the kinkaras in the combat

पदच्छेदः

ततस्तस्माद्ततस् (अव्ययः)–तद् (५.१)
भयान्मुक्ताःभय (५.१)–मुक्त (√मुच् + क्त, १.३)
कतिचित्कतिचिद् (अव्ययः)
तत्रतत्र (अव्ययः)
राक्षसाःराक्षस (१.३)
निहतान्निहत (√नि-हन् + क्त, २.३)
किंकरान्किंकर (२.३)
सर्वान्सर्व (२.३)
रावणायरावण (४.१)
न्यवेदयन्न्यवेदयन् (√नि-वेदय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त स्माद्भ या न्मु क्ताः
ति चि त्तत्र राक्ष साः
नि ता न्किं रा न्स र्वा
न्रा णान्य वे यन्