५.४१.७

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥

अन्वयः

शत्रुसैन्यानाम् of the enemy army, निहन्ता killer, मारुतात्मजः son of the Windgod, हनुमान् Hanuman, अहम् I am, कोसलेन्द्रस्य of the lord of Kosala kingdom, अक्लिष्टकर्मणः a man of unwearied action, रामस्य Rama's, दासः servant.

Summary

"I, son of the Windgod, destroyer of hostile armies, am a servant of Rama, the lord of Kosala kingdom, a man of unwearied action.

पदच्छेदः

दासोदास (१.१)
ऽहंमद् (१.१)
कोसलेन्द्रस्यकोसल–इन्द्र (६.१)
रामस्याक्लिष्टकर्मणःराम (६.१)–अक्लिष्ट–कर्मन् (६.१)
हनुमाञ्हनुमन्त् (१.१)
शत्रुसैन्यानांशत्रु–सैन्य (६.३)
निहन्तानिहन्तृ (१.१)
मारुतात्मजःमारुतात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा सो ऽहं को ले न्द्रस्य
रा स्या क्लिष्टर्म णः
नु मा ञ्शत्रु सै न्या नां
नि न्ता मारु तात्म जः