५.४२.१०

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥

अन्वयः

बली a powerful one, ताम् that boulder, तरसा with vehemence, समुत्पाट्य having lifted, बलवत् with his strength, चिक्षेप hurled, राक्षसः giant, क्रुद्धः angrily, ताम् that rock, दशभिः with ten, शरैः with arrows, ताडयामास smashed.

Summary

Powerful Hanuman with all vehemence lifted the rock and hurled it at the giant which he angrily smashed with ten arrows.

पदच्छेदः

तरसातरस् (३.१)
तांतद् (२.१)
समुत्पाट्यसमुत्पाट्य (√समुत्-पाटय् + ल्यप्)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
बलवद्बल–वत् (अव्ययः)
बलीबलिन् (१.१)
तांतद् (२.१)
शरैर्शर (३.३)
दशभिःदशन् (३.३)
क्रुद्धस्ताडयामासक्रुद्ध (√क्रुध् + क्त, १.१)–ताडयामास (√ताडय् प्र.पु. एक.)
राक्षसःराक्षस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा तां मु त्पाट्य
चि क्षेद्ब ली
तां रैर्द भिः क्रुद्ध
स्ता या मा राक्ष सः