५.४४.६

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥

अन्वयः

अहम् I, कर्मणा by his actions, प्रतितर्कयन् judging again and again,तम् him, कपिम् monkey, न मन्ये I do not think, सर्वथा by all its actions, तत् that, महाबलपरिग्रहम् endowed with great strength, महत् great, भूतम् a being.

M N Dutt

Having regard to his acts, I do not take him to be a monkey. He is a great being endowed with extraordinary prowess every way.

Summary

"Judging again and again from all actions, I do not think he is an ordinary monkey. He is a being endowed with great strength.

पदच्छेदः

(अव्ययः)
ह्यहंहि (अव्ययः)–मद् (१.१)
तंतद् (२.१)
कपिंकपि (२.१)
मन्येमन्ये (√मन् लट् उ.पु. )
कर्मणाकर्मन् (३.१)
प्रतितर्कयन्प्रतितर्कयत् (√प्रति-तर्कय् + शतृ, १.१)
सर्वथासर्वथा (अव्ययः)
तन्महद्तद् (१.१)–महत् (१.१)
भूतंभूत (१.१)
महाबलपरिग्रहम्महत्–बल–परिग्रह (१.१)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
इन्द्रेणइन्द्र (३.१)
वावा (अव्ययः)
सृष्टम्सृष्ट (√सृज् + क्त, १.१)
अस्मदर्थंमद्–अर्थ (२.१)
तपोबलात्तपस्–बल (५.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ह्य हं तं पिं न्येर्म णाप्र
तिर्क यन्र्व थान्म द्भू तं
हा रिग्र हम् वे दि न्द्रे
वा सृष्टस्म र्थं पो लात्