५.४४.९

नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः ।
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः ॥

पदच्छेदः

नावमन्यो (अव्ययः)–अवमन्य (√अव-मन् + कृत्, १.१)
भवद्भिश्चभवत् (३.३)–च (अव्ययः)
हरिःहरि (१.१)
क्रूरपराक्रमःक्रूर–पराक्रम (१.१)
दृष्टादृष्ट (√दृश् + क्त, १.३)
हिहि (अव्ययः)
हरयःहरि (१.३)
शीघ्राशीघ्र (१.३)
मयामद् (३.१)
विपुलविक्रमाःविपुल–विक्रम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना न्यो द्भिश्च
रिः क्रू राक्र मः
दृ ष्टाहि यः शी घ्रा
याविपु विक्र माः