५.४५.२२

समुत्पतन्तं समभिद्रवद्बली; स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथश्रेष्ठतमः किरञ्शरैः; पयोधरः शैलमिवाश्मवृष्टिभिः ॥

अन्वयः

बली mighty, राक्षसानाम् of the ogres, प्रवरः leader, प्रतापवान् brave, रथी charioteer, रथिश्रेष्ठतमः formost among the best warriors fighting on a chariot, सः that, पयोधरः cloud, अश्मवृष्टिभिः showering of hailstorm, शैलमिव like a mountain, शरैः with arrows, किरन् hitting into the sky, उत्पतन्तम् while leaping, समभिद्रवत् chased

M N Dutt

As he leapt up, that strong and powerful one-foremost of Raksasas-that car-warrior and the best of choice car warriors-rushed at (Hanuman), showering arrows on him, like a cloud showering hail-stones on a mountain.

पदच्छेदः

समुत्पतन्तंसमुत्पतत् (√समुत्-पत् + शतृ, २.१)
समभिद्रवद्समभिद्रवत् (√समभि-द्रु लङ् प्र.पु. एक.)
बलीबलिन् (१.१)
तद् (१.१)
राक्षसानांराक्षस (६.३)
प्रवरःप्रवर (१.१)
प्रतापवान्प्रतापवत् (१.१)
रथीरथिन् (१.१)
रथश्रेष्ठतमःरथ–श्रेष्ठतम (१.१)
किरञ्किरत् (√कृ + शतृ, १.१)
शरैःशर (३.३)
पयोधरःपयोधर (१.१)
शैलम्शैल (२.१)
इवाश्मवृष्टिभिःइव (अव्ययः)–अश्मन्–वृष्टि (३.३)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
मुत्प न्तं भिद्रद्ब ली
राक्ष सा नांप्र रःप्र ता वान्
थी श्रेष्ठ मःकिञ्श रैः
यो रः शैमि वाश्म वृष्टि भिः