५.४५.३०

इति प्रवेगं तु परस्य तर्कय;न्स्वकर्मयोगं च विधाय वीर्यवान् ।
चकार वेगं तु महाबलस्तदा; मतिं च चक्रेऽस्य वधे महाकपिः ॥

अन्वयः

वीर्यवान् valiant one, महाबलः very powerful, महाकपिः mighty vanara, इति thus, परस्य enemy's, प्रवेगम् speed, चिन्तयन् while reflecting upon, स्वकर्मयोगं च and his own course of action, विधाय after realising, तदा then, वेगम् speed, चकार increased, अस्य his, वधे in killing, मतिं च चक्रे made up his mind.

M N Dutt

Thus reflecting on the strength of his foe and having ascertained his line of action, that puissant one endowed with great strength, summoned energy and set his heart on slaying him (his antagonist).

Summary

Reflecting on the power of the enemy, the mighty and valiant vanara thought of his own course of action. Hanuman made up his mind to kill the enemy and increased his speed.

पदच्छेदः

इतिइति (अव्ययः)
प्रवेगंप्रवेग (२.१)
तुतु (अव्ययः)
परस्यपर (६.१)
तर्कयन्तर्कयत् (√तर्कय् + शतृ, १.१)
स्वकर्मयोगंस्व–कर्मन्–योग (२.१)
(अव्ययः)
विधायविधाय (√वि-धा + ल्यप्)
वीर्यवान्वीर्यवत् (१.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
वेगंवेग (२.१)
तुतु (अव्ययः)
महाबलस्तदामहत्–बल (१.१)–तदा (अव्ययः)
मतिंमति (२.१)
(अव्ययः)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
ऽस्यइदम् (६.१)
वधेवध (७.१)
महाकपिःमहत्–कपि (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तिप्र वे गंतुस्यर्क
न्स्वर्म यो गंवि धा वीर्य वान्
का वे गंतु हास्त दा
तिं क्रेऽस्य धे हा पिः