५.४५.३३

स तं परित्यज्य महारथो रथं; सकार्मुकः खड्गधरः खमुत्पतत् ।
तपोऽभियोगादृषिरुग्रवीर्यवा;न्विहाय देहं मरुतामिवालयम् ॥

अन्वयः

महारथः great charioteer, सः that, रथम् chariot, परित्यज्य abandoned, सकार्मुकः held his bow, खङ्गधरः held a sword, खम् sky, उत्पतन् flew up,उग्रवीर्यवान् who had fierce power, देहम् body, विहाय after leaving, तपोभियोगात् with ascetic power, मरुताम् of Maruta, आलयम् abode, ऋषिः इव like ascetic

M N Dutt

Thereat, forsaking that car, the mighty car warrior sprang up into sky with his bow and holding his sabre, and (resembled) an ascetic of fierce energy consequent on austerities, going up to heaven, renouncing his body.

पदच्छेदः

तद् (१.१)
तंतद् (२.१)
परित्यज्यपरित्यज्य (√परि-त्यज् + ल्यप्)
महारथोमहत्–रथ (१.१)
रथंरथ (२.१)
सकार्मुकः (अव्ययः)–कार्मुक (१.१)
खड्गधरःखड्ग–धर (१.१)
खम् (२.१)
उत्पतत्उत्पतत् (√उत्-पत् लङ् प्र.पु. एक.)
तपोऽभियोगाद्तपस्–अभियोग (५.१)
ऋषिर्ऋषि (१.१)
उग्रवीर्यवान्उग्र–वीर्यवत् (१.१)
विहायविहाय (√वि-हा + ल्यप्)
देहंदेह (२.१)
मरुताम्मरुत् (६.३)
इवालयम्इव (अव्ययः)–आलय (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तं रि त्यज्य हा थो थं
कार्मु कःड्ग रः मुत्प तत्
पोऽभि यो गादृषि रुग्र वीर्य वा
न्वि हा दे हंरु तामि वा यम्