५.४६.१७

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् ॥

अन्वयः

रथी charioteer, धन्विनाम् among wielders of bows, श्रेष्ठः best, शस्त्रज्ञः in the knowledge of archery, अस्त्रविदाम् among exports in weaponry, वरः great, सः that, सः हनुमान् that Hanuman, यत्र whichever, अभवत् stationed, शीघ्रम् quickly, रथेन by his chariot, अभिययौ marched.

M N Dutt

And that master of a car and foremost of bowmen, conversant with the use of all weapons-the best of those using swords proceeded soon in his car where Hanumān was.

Summary

Mounted on the chariot, Indrajit, the best in archery and an expert in weaponry went quickly to the place where that great Hanuman was stationed.

पदच्छेदः

तद् (१.१)
रथीरथिन् (१.१)
धन्विनांधन्विन् (६.३)
श्रेष्ठःश्रेष्ठ (१.१)
शस्त्रज्ञोशस्त्र–ज्ञ (१.१)
ऽस्त्रविदांअस्त्र–विद् (६.३)
वरःवर (१.१)
रथेनाभिययौरथ (३.१)–अभिययौ (√अभि-या लिट् प्र.पु. एक.)
क्षिप्रंक्षिप्रम् (अव्ययः)
हनूमान्हनुमन्त् (१.१)
यत्रयत्र (अव्ययः)
सोतद् (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थीन्वि नां श्रे ष्ठः
स्त्र ज्ञोऽस्त्रवि दां रः
थे नाभि यौ क्षि प्रं
नू मा न्यत्र सोऽभ वत्