५.४६.३३

ततो मतिं राक्षसराजसूनु;श्चकार तस्मिन्हरिवीरमुख्ये ।
अवध्यतां तस्य कपेः समीक्ष्य; कथं निगच्छेदिति निग्रहार्थम् ॥

अन्वयः

ततः then, राक्षसराजसूनुः son of the demon king, तस्य of that कपेः of vanara, अवध्यताम् that should not be killed, समीक्ष्य observing, निग्रहार्थम् in order to catch him, कथम् how, निगच्छेत् he may not come, इति thus, तस्मिन् in him, हरिवीरमुख्ये at the monkey, मतिम् mind, चकार resolved

M N Dutt

Thereupon, that son of the lord of Rākşasas pinned his thoughts upon that foremost of monkeys, and finding him incapable of being slain, he began to devise plans how he could be bound.

Summary

Then Indrajit, son of the demon king, thinking that a vanara should not be killed started considering other means of catching hm.

पदच्छेदः

ततोततस् (अव्ययः)
मतिंमति (२.१)
राक्षसराजसूनुश्राक्षस–राजन्–सूनु (१.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
तस्मिन्तद् (७.१)
हरिवीरमुख्येहरि–वीर–मुख्य (७.१)
अवध्यतांअवध्य–ता (२.१)
तस्यतद् (६.१)
कपेःकपि (६.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
कथंकथम् (अव्ययः)
निगच्छेद्निगच्छेत् (√नि-गम् विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
निग्रहार्थम्निग्रह–अर्थ (२.१)

छन्दः

उपेन्द्रवज्रा [११: जतजगग]

छन्दोविश्लेषणम्

१०११
तो तिं राक्ष रा सूनु
श्च का स्मिन्हरि वी मु ख्ये
ध्य तांस्य पेः मीक्ष्य
थंनि च्छेदिति निग्र हा र्थम्