५.४६.४६

स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥

अन्वयः

तेन by that, वल्केन with bark, बद्धः tied, वीर्यवान् valiant, सः he, अस्त्रेण by (Brahm) astra, विमुक्तः set free, सः that, अस्त्रबन्धः bondage of astra, अन्यम् other, बन्धम् bondage, न अनुवर्तते हि not tolerate

M N Dutt

Being bound with bark, that powerful (monkey) got himself freed from the binding of the weapon, for the binding force of a Brahma weapon becomes null when there is any other binding.

Summary

On being bound by bark ropes Hanuman was set free from the bond of Brahmastra, since the bondage of Brahmastra does not tolerate another ordinary bondage.

पदच्छेदः

तद् (१.१)
बद्धस्तेनबद्ध (√बन्ध् + क्त, १.१)–तद् (३.१)
वल्केनवल्क (३.१)
विमुक्तोविमुक्त (√वि-मुच् + क्त, १.१)
ऽस्त्रेणअस्त्र (३.१)
वीर्यवान्वीर्यवत् (१.१)
अस्त्रबन्धःअस्त्रबन्ध (१.१)
तद् (१.१)
चान्यं (अव्ययः)–अन्य (२.१)
हिहि (अव्ययः)
(अव्ययः)
बन्धम्बन्ध (२.१)
अनुवर्ततेअनुवर्तते (√अनु-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्ध स्ते ल्के
वि मु क्तो ऽस्त्रे वीर्य वान्
स्त्र न्धः चा न्यंहि
न्धनुर्त ते