५.४६.४७

अथेन्द्रजित्तं द्रुमचीरबन्धं; विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिन्ता;मन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥

अन्वयः

अथ and then, वीरः hero, इन्द्रजित्तु Indrajit, द्रुमचीरबद्धम् bound by bark rope, तम् him, कपिसत्तमम् foremost of vanaras, अस्त्रेण by astra, विमुक्तम् released, विचार्य thinking, चिन्ताम् thought, जगाम started, अन्येन by other, बद्धः bound, अस्त्रम् astra, नानु वर्तते हि indeed does not follow.

Summary

Then the heroic Indrajit coming to know that the foremost of the monkeys bound by bark ropes was released from the bondage of Brahmastra, thought, 'indeed the divine weapon does not tolerate other bonds, so the vanara is released'.

पदच्छेदः

अथेन्द्रजित्अथ (अव्ययः)–इन्द्रजित् (१.१)
तंतद् (२.१)
द्रुमचीरबन्धंद्रुम–चीर–बन्ध (२.१)
विचार्यविचार्य (√वि-चारय् + ल्यप्)
वीरःवीर (१.१)
कपिसत्तमंकपि–सत्तम (२.१)
तम्तद् (२.१)
विमुक्तम्विमुक्त (√वि-मुच् + क्त, १.१)
अस्त्रेणअस्त्र (३.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
चिन्ताम्चिन्ता (२.१)
अन्येनअन्य (३.१)
बद्धोबद्ध (√बन्ध् + क्त, १.१)
ह्यनुवर्ततेहि (अव्ययः)–अनुवर्तते (√अनु-वृत् लट् प्र.पु. एक.)
ऽस्त्रम्अस्त्र (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
थेन्द्र जि त्तंद्रु ची न्धं
वि चार्य वी रःपित्त मं तम्
वि मुक्त स्त्रे गा चि न्ता
न्ये द्धोह्यनुर्त ते ऽस्त्रम्