५.४६.५४

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥

अन्वयः

अथ and then, अपरे others, राक्षसाः rakshasas, सङ्कृद्धाः very angry, हन्यताम् kill him, दह्यतां चापि he may be burnt also, भक्ष्यताम् devoure, इति this way, परस्परम् one another, अब्रुवन् spoke

Summary

Thereafter other ogres angrily said 'Let us kill him, burn him or otherwise devour him,' thus they spoke to one another.

पदच्छेदः

हन्यतांहन्यताम् (√हन् प्र.पु. एक.)
दह्यतांदह्यताम् (√दह् प्र.पु. एक.)
वापिवा (अव्ययः)–अपि (अव्ययः)
भक्ष्यताम्भक्ष्यताम् (√भक्ष् प्र.पु. एक.)
इतिइति (अव्ययः)
चापरे (अव्ययः)–अपर (१.३)
राक्षसास्तत्रराक्षस (१.३)–तत्र (अव्ययः)
संक्रुद्धाःसंक्रुद्ध (√सम्-क्रुध् + क्त, १.३)
परस्परम्परस्पर (२.१)
अथाब्रुवन्अथ (अव्ययः)–अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्य तांह्य तां वापि
क्ष्य तामिति चा रे
राक्ष सा स्तत्र सं क्रु द्धाः
स्प थाब्रु वन्