५.४७.१

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।
हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत ॥

अन्वयः

ततः then, भीमविक्रमः of fierce valour, सः हनुमान् that Hanuman, तस्य his, तेन कर्मणा by that act, विस्मितः astonished, रोषताम्राक्षः eyes red with anger, रक्षोधिपम् demon king, अवैक्षत beheld.

Summary

The highly courageous Hanuman, astonished at the action (of binding and dragging him to the court) by the demon king looked at him with eyes turned red in anger.

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
कर्मणाकर्मन् (३.१)
तस्यतद् (६.१)
विस्मितोविस्मित (√वि-स्मि + क्त, १.१)
भीमविक्रमःभीम–विक्रम (१.१)
हनुमान्हनुमन्त् (१.१)
रोषताम्राक्षोरोष–ताम्र–अक्ष (१.१)
रक्षोऽधिपम्रक्षस्–अधिप (२.१)
अवैक्षतअवैक्षत (√अव-ईक्ष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःर्म णास्य
विस्मि तो भी विक्र मः
नु मा न्रो ता म्रा क्षो
क्षोऽधि वैक्ष