५.४७.१०

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।
वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥

अन्वयः

अत्यर्थम् exceedingly well, अलङ्कृताभिः with decorated ones, वालव्यजनहस्ताभिः holding whisks in their hands, प्रमदाभिः with beautiful girls, समन्ततः all over, आरात् the vicinity, समुपसेवितम् attended on him.

Summary

Young and beautiful girls decorated exceedingly well holding whisks all over the vicinity attended on him.

पदच्छेदः

अलंकृताभिर्अलंकृत (√अलम्-कृ + क्त, ३.३)
अत्यर्थंअत्यर्थम् (अव्ययः)
प्रमदाभिःप्रमदा (३.३)
समन्ततःसमन्ततः (अव्ययः)
वालव्यजनहस्ताभिर्वाल–व्यजन–हस्त (३.३)
आरात्आरात् (अव्ययः)
समुपसेवितम्समुपसेवित (√समुप-सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लंकृ ताभि त्य र्थं
प्र दा भिःन्त तः
वाव्य स्ताभि
रा रात्समु सेवि तम्