५.४७.२०

इति चिन्तां बहुविधामकरोन्मतिमान्कपिः ।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥

अन्वयः

अमितौजसः brilliant, राक्षसराजस्य Ravana's, प्रभावम् power, दृष्ट्वा after seeing, मतिमान् intelligent, हरिः Hanuman, इति in this way, बहुविधाम् many ways, चिन्ताम् thought, अकरोत् entertained.

Summary

Many such thoughts crossed Hanuman's intelligent mind on seeing Ravana's brilliance and power.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशस्सर्गः॥Thus ends the fortyninth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

इतिइति (अव्ययः)
चिन्तांचिन्ता (२.१)
बहुविधाम्बहुविध (२.१)
अकरोन्मतिमान्अकरोत् (√कृ लङ् प्र.पु. एक.)–मतिमत् (१.१)
कपिःकपि (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
राक्षसराजस्यराक्षस–राज (६.१)
प्रभावम्प्रभाव (२.१)
अमितौजसःअमित–ओजस् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति चि न्तांहुवि धा
रोन्मति मान्क पिः
दृ ष्ट्वा राक्ष रास्य
प्र भामि तौ सः