५.४८.१३

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ॥

अन्वयः

ततः then, बलिनः powerful, ते राक्षसाः those ogres, युद्धकाङ्क्षिणः desiring to fight, प्राप्ताः came, देहस्य of body, रक्षणार्थं तु to protect, मया by me, रणे in the combat, प्रतियुद्धाः in return I fought.

Summary

"Desiring to fight with me the powerful ogres came. Then I fought in self defence.

पदच्छेदः

ततस्तेततस् (अव्ययः)–तद् (१.३)
राक्षसाःराक्षस (१.३)
प्राप्ताप्राप्त (√प्र-आप् + क्त, १.३)
बलिनोबलिन् (१.३)
युद्धकाङ्क्षिणःयुद्ध–काङ्क्षिन् (१.३)
रक्षणार्थंरक्षण–अर्थ (२.१)
(अव्ययः)
देहस्यदेह (६.१)
प्रतियुद्धाप्रतियुद्ध (√प्रति-युध् + क्त, १.३)
मयामद् (३.१)
रणेरण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ते राक्ष साः प्रा प्ता
लि नो युद्ध काङ्क्षि णः
क्ष णा र्थं देस्य
प्रति यु द्धा या णे