५.४९.१४

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ॥

अन्वयः

मारुतस्य Maruta's, औरसः सुतः own son, हनुमान्नाम Hanuman by name, अहं तु I too, सीतायाः कृते for Sita, तूर्णम् swiftly, शतयोजनम् a hundred yojanas, आयतम् broad, समुद्रम् ocean, लङ्घयित्वैव leaping, ताम् her, दिदृक्षुः desirous of seeing, इह here, आगतः came.

M N Dutt

I, Hanumān my name, am the son of the Wind-god. For Sitã, I, desirous of seeing her, have come hither, bounding over the main measuring a full hundred Yojanas. And as I was roving, I came to see Janaka's daughter in your house.

Summary

"I, Maruta's son, Hanuman by name too came swiftly leaping across a hundred yojanas across the ocean searching for Sita.

पदच्छेदः

अहंमद् (१.१)
तुतु (अव्ययः)
हनुमान्नामहनुमन्त् (१.१)–नाम (अव्ययः)
मारुतस्यौरसःमारुत (६.१)–औरस (१.१)
सुतःसुत (१.१)
सीतायास्तुसीता (६.१)–तु (अव्ययः)
कृतेकृत (७.१)
तूर्णंतूर्णम् (अव्ययः)
शतयोजनम्शत–योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)
समुद्रंसमुद्र (२.१)
लङ्घयित्वैवलङ्घयित्वा (√लङ्घय् + क्त्वा)–एव (अव्ययः)
तांतद् (२.१)
दिदृक्षुर्दिदृक्षु (१.१)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
हंतुनु मा न्ना मारु स्यौ
सःसु तः सी ता यास्तुकृ ते तू र्णं
यो मा तम् मु द्रं
ङ्घ यि त्वै तांदि दृक्षुरि हा तः