५.४९.९

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥

अन्वयः

तेन by him, तस्य his, सीतायाः Sita's, परिमार्गणम् to search, प्रतिज्ञातम् is promised, रामेणापि even by Rama also, सुग्रीवस्य Sugriva's, हरिराज्यम् kingdom of monkeys, निवेदितम् assured.

M N Dutt

And Sugrīva promised that he would undertake the search for Sītă, and Rāma (on his part promised) that he would confer on Sugrīva the kingdom of the monkeys.

Summary

"Sugriva promised Rama to undertake search for Sita and Rama assured Sugriva of securing him the kingdom of the monkeys.

पदच्छेदः

तस्यतद् (६.१)
तेनतद् (३.१)
प्रतिज्ञातंप्रतिज्ञात (√प्रति-ज्ञा + क्त, १.१)
सीतायाःसीता (६.१)
परिमार्गणम्परिमार्गण (१.१)
सुग्रीवस्यापिसुग्रीव (६.१)–अपि (अव्ययः)
रामेणराम (३.१)
हरिराज्यंहरि–राज्य (१.१)
निवेदितम्निवेदित (√नि-वेदय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य तेप्र ति ज्ञा तं
सी ता याःरि मार्ग णम्
सु ग्री स्यापि रा मे
रि रा ज्यंनि वेदि तम्