५.५.१९

शुकस्य च महावेगः सारणस्य च धीमतः ।
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥

अन्वयः

महातेजाः brilliant one, हरियूथपः leader of monkeys, शुकस्य Suka's, धीमतः of the intelligent, सारणस्य Sarana's, तथा similarly, इन्द्रजितः Indrajit's , वेश्म residence, जगाम went

Summary

The brilliant leader of monkeys bounded to the house of Suka, to the clever Sarana's and to Indrajit's.

पदच्छेदः

शुकस्यशुक (६.१)
(अव्ययः)
महावेगःमहत्–वेग (१.१)
सारणस्यसारण (६.१)
(अव्ययः)
धीमतःधीमत् (६.१)
तथातथा (अव्ययः)
चेन्द्रजितो (अव्ययः)–इन्द्रजित् (६.१)
वेश्मवेश्मन् (२.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
हरियूथपःहरि–यूथप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शुस्य हा वे गः
सास्य धी तः
था चेन्द्रजि तो वेश्म
गारि यू पः