५.५.२९

रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् ।
कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥

पदच्छेदः

रक्ताञ्रक्त (२.३)
श्वेतान्श्वेत (२.३)
सितांश्चैवसित (२.३)–च (अव्ययः)–एव (अव्ययः)
हरींश्चैवहरि (२.३)–च (अव्ययः)–एव (अव्ययः)
महाजवान्महत्–जव (२.३)
कुलीनान्कुलीन (२.३)
रूपसम्पन्नान्रूप–सम्पन्न (√सम्-पद् + क्त, २.३)
गजान्गज (२.३)
परगजारुजान्पर–गज–आरुज (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ता ञ्श्वे तान्सि तां श्चै
रीं श्चै हा वान्
कु ली ना न्रू सं न्ना
न्ग जान्प जारु जान्