५.५.३१

क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ।
मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः ॥

पदच्छेदः

क्षरतश्चक्षरत् (√क्षर् + शतृ, २.३)–च (अव्ययः)
यथायथा (अव्ययः)
मेघान्मेघ (२.३)
स्रवतश्चस्रवत् (√स्रु + शतृ, २.३)–च (अव्ययः)
यथायथा (अव्ययः)
गिरीन्गिरि (२.३)
मेघस्तनितनिर्घोषान्मेघ–स्तनित–निर्घोष (२.३)
दुर्धर्षान्दुर्धर्ष (२.३)
समरेसमर (७.१)
परैःपर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षश्च था मे घा
न्स्रश्च थागि रीन्
मेस्तनि नि र्घो षा
न्दु र्ध र्षान्स रे रैः