५.५.३९

जाम्बूनदमयान्येव शयनान्यासनानि च ।
भाजनानि च शुभ्राणि ददर्श हरियूथपः ॥

अन्वयः

हरियूथपः vanara leader, जाम्बूनदमयान्येव made of Jambunada gold, शयनानि beds, आसनानि च seats, मुख्यानि chief, भाजनानि vessels, ददर्श saw

M N Dutt

And the chief of monkey-bands saw bedsteads and seat of gold and white vessels.

Summary

The leader of the vanaras saw there beds, seats and main vessels made of gold.

पदच्छेदः

जाम्बूनदमयान्येवजाम्बूनद–मय (२.३)–एव (अव्ययः)
शयनान्यासनानिशयन (२.३)–आसन (२.३)
(अव्ययः)
भाजनानिभाजन (२.३)
(अव्ययः)
शुभ्राणिशुभ्र (२.३)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
हरियूथपःहरि–यूथप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जा म्बू या न्ये
ना न्या नानि
भा नानि शु भ्राणि
र्शरि यू पः