५.५.५

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥

अन्वयः

गजास्थितैः mounted on elephants, शूरैः by drivers, विगतश्रमैः unwearied, महामात्रैः great, असंहार्यैः irresistible, हयैः with horses, स्यन्दनयायिभिः chariotriders, उपस्थितम् kept ready

Summary

(He saw) archways guarded by riders mounted on majestic elephants and unwearied riders of chariots drawn by horses of irresistible speed kept ready.

पदच्छेदः

गजास्थितैर्गज–आस्थित (√आ-स्था + क्त, ३.३)
महामात्रैःमहामात्र (३.३)
शूरैश्चशूर (३.३)–च (अव्ययः)
विगतश्रमैःविगत (√वि-गम् + क्त)–श्रम (३.३)
उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)
असंहार्यैर्असंहार्य (३.३)
हयैःहय (३.३)
स्यन्दनयायिभिःस्यन्दन–यायिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जास्थि तैर्म हा मा त्रैः
शू रैश्चविश्र मैः
स्थि सं हा र्यै
र्ह यैः स्यन्द यायि भिः