५.५.९

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥

अन्वयः

विनीतैः by disciplined, अन्तपालैः by guards, रक्षोभिः by demons, सुरक्षितम् well guarded, मुख्याभिः important, वरस्त्रीभिः by beautiful shedemons, समन्ततः everywhere, परिपूर्णम् filled

Summary

The place was full of beautful women, carefully protected by disciplined guards as well as demons.

पदच्छेदः

विनीतैर्विनीत (√वि-नी + क्त, ३.३)
अन्तपालैश्चअन्तपाल (३.३)–च (अव्ययः)
रक्षोभिश्चरक्षस् (३.३)–च (अव्ययः)
सुरक्षितम्सु (अव्ययः)–रक्षित (√रक्ष् + क्त, २.१)
मुख्याभिश्चमुख्य (३.३)–च (अव्ययः)
वरस्त्रीभिःवर–स्त्री (३.३)
परिपूर्णंपरिपूर्ण (√परि-पृ + क्त, २.१)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि नी तैन्त पा लैश्च
क्षो भिश्चसुक्षि तम्
मु ख्या भिश्च स्त्री भिः
रि पू र्णंन्त तः