५.५०.१७

तदेकदेशेन बलस्य ताव;त्केचित्तवादेशकृतोऽपयान्तु ।
तौ राजपुत्रौ विनिगृह्य मूढौ; परेषु ते भावयितुं प्रभावम् ॥

अन्वयः

तत् so, तव your, आदेशकृतः those who obey you, केचित् some, बलस्य army's, एकदेशेन with one part, मूढौ two foolish ones, तौ those two, राजपुत्रौ two sons of a king, विनिगृह्य capture, परेषु among your enemies, ते your, प्रभावम् power, भावयितुम् to exhibit, अभियान्तु they may march out for war.

Summary

By your order let some strong soldiers from one contingency go and capture the two sons of the king, to exhibit your power over the enemy.

पदच्छेदः

तद्तद् (२.१)
एकदेशेनएकदेश (३.१)
बलस्यबल (६.१)
तावत्तावत् (अव्ययः)
केचित्कश्चित् (१.३)
तवादेशकृतोत्वद् (६.१)–आदेश–कृत् (१.३)
ऽपयान्तुअपयान्तु (√अप-या लोट् प्र.पु. बहु.)
तौतद् (२.२)
राजपुत्रौराजन्–पुत्र (२.२)
विनिगृह्यविनिगृह्य (√विनि-ग्रह् + ल्यप्)
मूढौमूढ (√मुह् + क्त, २.२)
परेषुपर (७.३)
तेत्वद् (६.१)
भावयितुंभावयितुम् (√भावय् + तुमुन्)
प्रभावम्प्रभाव (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
दे दे शेस्य ता
त्के चित्त वा देकृ तोऽप यान्तु
तौ रा पु त्रौविनि गृह्य मू ढौ
रेषु ते भायि तुंप्र भा वम्