५.५१.२०

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ।
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥

अन्वयः

ततः then, तत्र there, हनूमतः Hanuman's, लाङ्गूलाग्रे when the tip of the tail, दीप्यमाने was set on fire, विरूपाक्ष्यः uglyeyed women, ताः राक्षस्यः the shedemon, देव्याः to divine Sita, अप्रियम् unpleasant, तत् that, शंसुः informed.

M N Dutt

On Hanumān's tail being in flames, Rākṣasīs of frightful eyes related to that exalted lady (Sītā) tidings of this great mishap.

Summary

When the tip of Hanuman's tail was set on fire, the uglyeyed shedemon. Carried the unpleasant news to divine Sita.

पदच्छेदः

दीप्यमानेदीप्यमान (√दीप् + शानच्, ७.१)
ततस्तस्यततस् (अव्ययः)–तद् (६.१)
लाङ्गूलाग्रेलाङ्गूल–अग्र (७.१)
हनूमतःहनुमन्त् (६.१)
राक्षस्यस्ताराक्षसी (१.३)–तद् (१.३)
विरूपाक्ष्यःविरूप–अक्ष (१.३)
शंसुर्शंसुः (√शंस् लिट् प्र.पु. बहु.)
देव्यास्तद्देवी (६.१)–तद् (२.१)
अप्रियम्अप्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दीप्य मा ने स्तस्य
ला ङ्गू ला ग्रे नू तः
रा क्ष स्य स्तावि रू पा क्ष्यः
शं सु र्दे व्यास्तप्रि यम्