५.५१.३०

दृश्यते च महाज्वालः करोति च न मे रुजम् ।
शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः ॥

अन्वयः

महाज्वालः huge flame, दृश्यते seeing, मे my, रुजम् न करोति च is not hurting me, लाङ्गूलाग्रे at the end of my tail, शिशिरस्य like the coolness, सङ्घातः like mass of ice, प्रतिष्ठितः इव is placed.

M N Dutt

I see it of exceeding brightness yet it pain me not. (On the contrary), at the end of my tail it seem like a mass of ice.

Summary

'This huge flame is not hurting me. It is as though a mass of ice is placed at the end of my tail. (The fire did not torture nor extend beyond the tip of my tail.)

पदच्छेदः

दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
(अव्ययः)
महाज्वालःमहत्–ज्वाल (१.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
(अव्ययः)
(अव्ययः)
मेमद् (६.१)
रुजम्रुज् (२.१)
शिशिरस्येवशिशिर (६.१)–इव (अव्ययः)
संपातोसम्पात (१.१)
लाङ्गूलाग्रेलाङ्गूल–अग्र (७.१)
प्रतिष्ठितःप्रतिष्ठित (√प्रति-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृश्य ते हा ज्वा लः
रोति मेरु जम्
शिशि स्ये सं पा तो
ला ङ्गू ला ग्रेप्र तिष्ठि तः