५.५१.३५

पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् ।
विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥

अन्वयः

ततः then, श्रीमान् the illustrious, अनिलात्मजः the son of the Windgod (Hanuman), शैलशृङ्गमिव like the peak of a mountain, उन्नतम् lofty, विभक्तरक्षस्सम्बाधम् turned away the demons, पुरद्वारम् entrance of the city, आससाद reached.

M N Dutt

Then the graceful son of the Wind-god arrived at the gate of the city resembling a hill, where Rākşasas there were none.

Summary

Then the illustrious Hanuman reached the entrance of the lofty city, which was like the peak of a mountain and turned away the demons.

पदच्छेदः

पुरद्वारंपुर–द्वार (२.१)
ततःततस् (अव्ययः)
श्रीमाञ्श्रीमत् (१.१)
शैलशृङ्गम्शैल–शृङ्ग (२.१)
इवोन्नतम्इव (अव्ययः)–उन्नत (√उत्-नम् + क्त, २.१)
विभक्तरक्षःसंबाधम्विभक्त (√वि-भज् + क्त)–रक्षस्–सम्बाध (२.१)
आससादानिलात्मजःआससाद (√आ-सद् लिट् प्र.पु. एक.)–अनिलात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु द्वा रं तः श्री मा
ञ्शै शृङ्गमि वोन्न तम्
विक्त क्षः सं बा
मा सा दानि लात्म जः