५.५२.१

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥

अन्वयः

ततः then, कृतमनोरथः objectives achieved, कपिः monkey, लङ्काम् Lanka, वीक्षमाणः gazing, वर्धमानसमुत्साहः growing zeal, कार्यशेषम् remaining work, अचिन्तयत् pondered over.

M N Dutt

Casting his eyes on Lankā, the monkey, his wish attained, increasing his person and bursting with spirits, considered as to how to give the coup de grace to his exertions.

Summary

With his objectives achieved, the monkey gazed at Lanka with growing zeal and pondered over the remaining work.

पदच्छेदः

वीक्षमाणस्ततोवीक्षमाण (√वि-ईक्ष् + शानच्, १.१)–ततस् (अव्ययः)
लङ्कांलङ्का (२.१)
कपिःकपि (१.१)
कृतमनोरथःकृत (√कृ + क्त)–मनोरथ (१.१)
वर्धमानसमुत्साहःवर्धमान (√वृध् + शानच्)–समुत्साह (१.१)
कार्यशेषम्कार्य–शेष (२.१)
अचिन्तयत्अचिन्तयत् (√चिन्तय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वीक्ष मास्त तो ङ्कां
पिःकृ नो थः
र्ध मा मु त्सा हः
कार्य शे चिन्त यत्