५.५२.२

किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम् ।
यदेषां रक्षसां भूयः संतापजननं भवेत् ॥

अन्वयः

यत् that which, एषाम् to them, रक्षसाम् for the demons, भूयः again, सन्तापजननम् which can torment, भवेत् will he, किं नु what is, कर्तव्यम् the duty, मे to me, इह here, साम्प्रतम् presently, अवशिष्टम् left over.

M N Dutt

What recently is to done by me here to finish this business, that may afflict them the more?

Summary

'Is there anything still left which can further torment the demons here?

पदच्छेदः

किं (१.१)
नुनु (अव्ययः)
खल्ववशिष्टंखलु (अव्ययः)–अवशिष्ट (√अव-शिष् + क्त, १.१)
मेमद् (६.१)
कर्तव्यम्कर्तव्य (√कृ + कृत्, १.१)
इहइह (अव्ययः)
साम्प्रतम्सांप्रतम् (अव्ययः)
यद्यद् (१.१)
एषांइदम् (६.३)
रक्षसांरक्षस् (६.३)
भूयःभूयस् (अव्ययः)
संतापजननंसंताप–जनन (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किंनुल्ववि शि ष्टं मे
र्तव्यमि साम्प्र तम्
दे षांक्ष सां भू यः
सं ता नं वेत्