५.५२.११

तानि भग्नविमानानि निपेतुर्वसुधातले ।
भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये ॥

पदच्छेदः

तानितद् (१.३)
भग्नविमानानिभग्न (√भञ्ज् + क्त)–विमान (१.३)
निपेतुर्निपेतुः (√नि-पत् लिट् प्र.पु. बहु.)
वसुधातलेवसुधा–तल (७.१)
भवनानीवभवन (१.३)–इव (अव्ययः)
सिद्धानाम्सिद्ध (६.३)
अम्बरात्अम्बर (५.१)
पुण्यसंक्षयेपुण्य–संक्षय (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तानिग्नवि मा नानि
नि पे तुर्वसु धा ले
ना नी सि द्धा ना
म्ब रा त्पुण्य संक्ष ये