५.५२.३

वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥

अन्वयः

वनम् garden, प्रमथितं तावत् broken everywhere, प्रकृष्टाः powerful, राक्षसाः demons, हताः are killed, बलैकदेशः a part of the army, क्षपितः is destroyed, दुर्गविनाशनम् destruction of the citadel, शेषम् left over.

M N Dutt

I have ravaged the wood, and slain the choice Rākşasas, and destroyed by main force a portion of the army. Now it remains to demolish the fortifications.

पदच्छेदः

वनंवन (१.१)
तावत्तावत् (अव्ययः)
प्रमथितंप्रमथित (√प्र-मथ् + क्त, १.१)
प्रकृष्टाप्रकृष्ट (१.३)
राक्षसाराक्षस (१.३)
हताःहत (√हन् + क्त, १.३)
बलैकदेशःबल–एकदेश (१.१)
क्षपितःक्षपित (√क्षपय् + क्त, १.१)
शेषंशेष (१.१)
दुर्गविनाशनम्दुर्ग–विनाशन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नं तात्प्रथि तं
प्र कृ ष्टा राक्ष सा ताः
लै दे शःक्षपि तः
शे षं दुर्गवि ना नम्