५.५३.१४

एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥

अन्वयः

एतदेव this alone, वचः word, श्रुत्वा having heard, भ्रातृवत्सलः a loving brother, धर्मात्मा righteous one, सहशत्रुघ्नः along with Satrughna, भरतः Bharata, जीवितुम् to live, कथम् how, शक्ष्यति he can.

M N Dutt

Hearing these tidings, how shall the righteous Bharata, attached to his brother (Rāma), along with Satrughna, live?

Summary

'How will the loving righteous brother, Bharata along with Satrughna survive after hearing this?

पदच्छेदः

एतद्एतद् (२.१)
एवएव (अव्ययः)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
भरतोभरत (१.१)
भ्रातृवत्सलःभ्रातृ–वत्सल (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
सहशत्रुघ्नःसह (अव्ययः)–शत्रुघ्न (१.१)
कथंकथम् (अव्ययः)
शक्ष्यतिशक्ष्यति (√शक् लृट् प्र.पु. एक.)
जीवितुम्जीवितुम् (√जीव् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे चः श्रु त्वा
तो भ्रातृत्स लः
र्मा त्मा त्रु घ्नः
थंक्ष्यति जीवि तुम्