५.५३.२७

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥

अन्वयः

सः हनूमान् that Hanuman, दृष्ठार्थैः with proofs having seen, निमित्तै: with omens, महागुणैः good tidings, कारणैश्च and by reasons, ऋषिवाक्यैश्च by the sages words, प्रीतमानसः happy at heart, अभवत् became.

M N Dutt

And what through the auspicious omens that he had witnessed, and what through the speech of the saints, Hanumān was delighted (beyond measure).

Summary

With omens that proved to be right and for good reasons and from the words of the sages (charanas), Hanuman felt happy.

पदच्छेदः

तद् (१.१)
निमित्तैश्चनिमित्त (३.३)–च (अव्ययः)
दृष्टार्थैःदृष्ट (√दृश् + क्त)–अर्थ (३.३)
कारणैश्चकारण (३.३)–च (अव्ययः)
महागुणैःमहत्–गुण (३.३)
ऋषिवाक्यैश्चऋषि–वाक्य (३.३)–च (अव्ययः)
हनुमान्हनुमन्त् (१.१)
अभवत्अभवत् (√भू लङ् प्र.पु. एक.)
प्रीतमानसःप्रीत (√प्री + क्त)–मानस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि मि त्तैश्च दृ ष्टा र्थैः
का णैश्च हागु णैः
षि वा क्यैश्चनु मा
त्प्री मा सः