५.५४.१९

स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।
ररास सह तैर्भूतैः प्राविशद्वसुधातलम् ।
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥

अन्वयः

तदा then, तेन कपिना by that vanara, पीडितः pressed, सः पर्वतोत्तमः that great mountain, तैः those, भूतैः सह along with the creatures, वसुधातलम् to the earth, प्रविशन् while entering, कम्पमानैः with shaking, शिखरैः with peaks, पतद्भिः with dropped, द्रुमैः with trees, ररास crushed down making great sound.

M N Dutt

Then that best of mountains, sore pressed by the monkey, began to emit cries, and with various creatures (on it), entered under the Earth, with its peaks tottering and its trees toppling.

Summary

Pressed under the feet of Hanuman, the great mountain made loud sound sinking into the earth along with all its creatures, with its shaken mountain peaks and uprooted trees dropping down.

पदच्छेदः

तद् (१.१)
तदातदा (अव्ययः)
पीडितस्तेनपीडित (√पीडय् + क्त, १.१)–तद् (३.१)
कपिनाकपि (३.१)
पर्वतोत्तमःपर्वत–उत्तम (१.१)
ररासररास (√रस् लिट् प्र.पु. एक.)
सहसह (अव्ययः)
तैर्तद् (३.३)
भूतैःभूत (३.३)
प्राविशद्प्राविशत् (√प्र-विश् लङ् प्र.पु. एक.)
वसुधातलम्वसुधा–तल (२.१)
कम्पमानैश्चकम्पमान (√कम्प् + शानच्, ३.३)–च (अव्ययः)
शिखरैःशिखर (३.३)
पतद्भिर्पतत् (√पत् + शतृ, ३.३)
अपिअपि (अव्ययः)
(अव्ययः)
द्रुमैःद्रुम (३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दा पीडि स्तेपि ना
र्व तोत्त मः रा तै र्भू तैः
प्राविद्वसु धा लम्म्प मा नै
श्चशि रैःद्भिपिद्रु मैः