५.५५.११

निशम्य नदतो नादं वानरास्ते समन्ततः ।
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥

अन्वयः

समन्ततः together, सर्वे all of them, ते वानराः those vanaras, नदतः chattering, नादम् voice, निशम्य hearing, सुहृद्धर्शनकाङ्क्षिणः waiting to see their friend, उत्सुकाः eager, बभूवुः became.

M N Dutt

Hearing those sounds as he kept crying, those monkeys (sitting) around, eager to see their friend, became extremely anxious.

Summary

On hearing the loud voice of Hanuman, all the vanaras were longing to see their friend.

पदच्छेदः

निशम्यनिशम्य (√नि-शामय् + ल्यप्)
नदतोनदत् (√नद् + शतृ, ६.१)
नादंनाद (२.१)
वानरास्तेवानर (१.३)–तद् (१.३)
समन्ततःसमन्ततः (अव्ययः)
बभूवुर्बभूवुः (√भू लिट् प्र.पु. बहु.)
उत्सुकाःउत्सुक (१.३)
सर्वेसर्व (१.३)
सुहृद्दर्शनकाङ्क्षिणःसुहृद्–दर्शन–काङ्क्षिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निम्य तो ना दं
वा रा स्तेन्त तः
भूवु रुत्सु काः र्वे
सु हृ द्दर्श काङ्क्षि णः