५.५५.१३

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ।
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥

अन्वयः

असौ Oh that, हनुमान् Hanuman, सर्वथा always, कृतकार्यः successful, अकृतकार्यस्य if he was not successsful, अस्य his, नादः sound, एवंविधः in this manner, न भवेत् हि will not be so.

M N Dutt

Hanumān has succeeded completely. There is no doubt about this. If he were unsuccessful, he would not utter shouts as these.

Summary

"Oh Hanuman is always successful. If he has not, he would not make sounds in this manner".

पदच्छेदः

सर्वथासर्वथा (अव्ययः)
कृतकार्योकृत (√कृ + क्त)–कार्य (१.१)
ऽसौअदस् (१.१)
हनूमान्नात्रहनुमन्त् (१.१)–न (अव्ययः)–अत्र (अव्ययः)
संशयःसंशय (१.१)
(अव्ययः)
ह्यस्याकृतकार्यस्यहि (अव्ययः)–इदम् (६.१)–अकृत–कार्य (६.१)
नादनाद (१.१)
एवंविधोएवंविध (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व थाकृ का र्यो ऽसौ
नू मा न्नात्र सं यः
ह्य स्याकृ का र्यस्य
ना वंवि धो वेत्