५.५५.२४

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।
दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ॥

अन्वयः

विक्रान्तः valiant one, पूज्यः worthy of worship, सः he, ताभ्याम् both, पूजितः having been honoured, कपिभिः by vanaras also, प्रसादितः pleased, सीता Sita, दृष्टा saw, इति this, सङ्क्षेपेण briefly, न्यवेदयत् revealed.

M N Dutt

And honoured by the monkeys as he very well deserved to be, and gratified by them, (he) briefly said—“Seen have I the exalted lady."

Summary

The valiant Hanuman worthy of worship having been honoured by both Jambavan and Angada was pleased. He responded briefly, saying 'Saw Sita'.

पदच्छेदः

तद् (१.१)
ताभ्यांतद् (३.२)
पूजितःपूजित (√पूजय् + क्त, १.१)
पूज्यःपूज्य (√पूजय् + कृत्, १.१)
कपिभिश्चकपि (३.३)–च (अव्ययः)
प्रसादितःप्रसादित (√प्र-सादय् + क्त, १.१)
दृष्टादृष्ट (√दृश् + क्त, १.१)
देवीतिदेवी (१.१)–इति (अव्ययः)
विक्रान्तःविक्रान्त (√वि-क्रम् + क्त, १.१)
संक्षेपेणसंक्षेप (३.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता भ्यां पूजि तः पू ज्यः
पि भि श्चप्र सादि तः
दृ ष्टा दे वीति वि क्रा न्तः
सं क्षे पेन्य वे यत्