५.५५.७

प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥

अन्वयः

अभ्रजालानि strings of clouds, पुनः पुनः again and again, प्रविशन् while entering, निष्पतंश्च and while coming out, प्रच्छन्नश्च hiding, प्रकाशश्च and shining, चन्द्रमाः इव like the Moon, लक्ष्यते was seen.

M N Dutt

And now entering into clouds and now imerging from them, he, again and again becoming visible and lost to sight, looked like the Moon.

Summary

Entering into and emerging from the clouds, he looked like the Moon that appears and disappears (behind a bank of clouds).

पदच्छेदः

प्रविशन्न्प्रविशत् (√प्र-विश् + शतृ, १.१)
अभ्रजालानिअभ्र–जाल (२.३)
निष्क्रमंश्चनिष्क्रमत् (√निः-क्रम् + शतृ, १.१)–च (अव्ययः)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
प्रच्छन्नश्चप्रच्छन्न (√प्र-छद् + क्त, १.१)–च (अव्ययः)
प्रकाशश्चप्रकाश (१.१)–च (अव्ययः)
चन्द्रमाचन्द्रमस् (१.१)
इवइव (अव्ययः)
लक्ष्यतेलक्ष्यते (√लक्षय् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रवि न्नभ्र जा लानि
निष्क्र मंश्चपु नःपु नः
प्र च्छ न्न श्चप्र काश्च
न्द्र माक्ष्य ते