५.५५.८

नदन्नादेन महता मेघस्वनमहास्वनः ।
आजगाम महातेजाः पुनर्मध्येन सागरम् ॥

पदच्छेदः

नदन्नादेननदत् (√नद् + शतृ, १.१)–नाद (३.१)
महतामहत् (३.१)
मेघस्वनमहास्वनःमेघ–स्वन–महत्–स्वन (१.१)
आजगामआजगाम (√आ-गम् लिट् प्र.पु. एक.)
महातेजाःमहत्–तेजस् (१.१)
पुनर्पुनर् (अव्ययः)
मध्येनमध्य (३.१)
सागरम्सागर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ना दे ता
मेस्व हास्व नः
गा हा ते जाः
पु र्म ध्ये सा रम्