५.५६.११२

पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् ।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥

पदच्छेदः

पृष्टश्चपृष्ट (√प्रच्छ् + क्त, १.१)–च (अव्ययः)
लङ्कागमनंलङ्का–आगमन (२.१)
राक्षसानांराक्षस (६.३)
(अव्ययः)
तद्वधम्तद्–वध (२.१)
तत्तद् (१.१)
सर्वंसर्व (१.१)
(अव्ययः)
मयामद् (३.१)
तत्रतत्र (अव्ययः)
सीतार्थम्सीता–अर्थ (२.१)
इतिइति (अव्ययः)
जल्पितम्जल्पित (√जल्प् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ ष्टश्च ङ्का नं
राक्ष सा नांद्व धम्
त्स र्वं यात्र
सी तार्थमितिल्पि तम्