५.५६.११७

तेन मे कथितं राजन्भार्या मे रक्षसा हृता ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥

अन्वयः

राज्ञा the king, तेन by him, मे to me, कथितम् revealed, मे भार्या my wife, रक्षसा by the demon, हृता abducted, तत्र there, त्वया by your, सर्वात्मना by all ways, अस्माकम् by you, साहाय्यम् help, कार्यम् do.

M N Dutt

He has spoken to me, O king, ‘My spouse has been taken away by a Rākşasa. It behove you to promise me your help in this.'

Summary

'The king said, ' My wife was abducted by a demon. I request your help by all means to get her'.

पदच्छेदः

तेनतद् (३.१)
मेमद् (६.१)
कथितंकथित (√कथय् + क्त, १.१)
राजन्राजन् (८.१)
भार्याभार्या (१.१)
मेमद् (६.१)
रक्षसारक्षस् (३.१)
हृताहृत (√हृ + क्त, १.१)
तत्रतत्र (अव्ययः)
साहाय्यहेतोर्साहाय्य–हेतु (५.१)
मेमद् (६.१)
समयंसमय (२.१)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते मेथि तं रा
न्भा र्या मेक्ष साहृ ता
त्र सा हाय्य हे तो र्मे
यंर्तुर्हसि