५.५६.१३

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।
मैनाकमिति विख्यातं निवसन्तं महोदधौ ॥

अन्वयः

महोदधौ in the great ocean, निवसन्तम् residing, मातरिश्वनः winddeity, सखायम् friend, विख्यातम् called, माम् I, मैनाकमिति Mainaka, पितृव्यं चापि like father's brother, विद्धि you may know.

Summary

'Know me to be a friend of windgod and so I am like your father's brother. I am dwelling in this great ocean and known as Mainaka.

पदच्छेदः

पितृव्यंपितृव्य (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
मांमद् (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
सखायंसखि (२.१)
मातरिश्वनःमातरिश्वन् (६.१)
मैनाकम्मैनाक (२.१)
इतिइति (अव्ययः)
विख्यातंविख्यात (√वि-ख्या + क्त, २.१)
निवसन्तंनिवसत् (√नि-वस् + शतृ, २.१)
महोदधौमहत्–उदधि (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तृ व्यं चापि मां विद्धि
खा यं मा रिश्व नः
मै नामिति वि ख्या तं
नि न्तं हो धौ