५.५६.१४

पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥

अन्वयः

पुत्त्र O son, पुरा in the past, पर्वतोत्तमाः the foremost of mountains, पक्षवन्तः had wings, बभूवुः had, बाधमानाः tormenting, छन्दतः at will, समन्ततः all over, पृथिवीम् the earth, चेरुः ranging.

Summary

'O son in the past, foremost of the mountains too had wings and they used to range at will all over the earth tormenting all.

पदच्छेदः

पक्षवन्तःपक्षवत् (१.३)
पुरापुरा (अव्ययः)
पुत्रपुत्र (८.१)
बभूवुःबभूवुः (√भू लिट् प्र.पु. बहु.)
पर्वतोत्तमाःपर्वत–उत्तम (१.३)
छन्दतःछन्दतस् (अव्ययः)
पृथिवींपृथिवी (२.१)
चेरुर्चेरुः (√चर् लिट् प्र.पु. बहु.)
बाधमानाःबाधमान (√बाध् + शानच्, १.३)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्व न्तःपु रा पुत्र
भू वुःर्व तोत्त माः
न्द तःपृथि वीं चेरु
र्बा मा नाःन्त तः