५.५६.१३१

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।
न मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा ॥

M N Dutt

Although bound and fettered with many ropes I did not feel the least anguish for I was very much anxious to behold the city during the day.

पदच्छेदः

बद्धस्यबद्ध (√बन्ध् + क्त, ६.१)
बहुभिःबहु (३.३)
पाशैर्पाश (३.३)
यन्त्रितस्ययन्त्रित (√यन्त्रय् + क्त, ६.१)
(अव्ययः)
राक्षसैःराक्षस (३.३)
(अव्ययः)
मेमद् (६.१)
पीडापीडा (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
काचिद्कश्चित् (१.१)
दिदृक्षोर्दिदृक्षु (६.१)
नगरींनगरी (२.१)
दिवादिवा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्धस्यहु भिः पा शै
र्यन्त्रिस्य राक्ष सैः
मे पी डा वे त्काचि
द्दि दृ क्षोर्न रींदि वा