५.५६.१३४

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥

पदच्छेदः

आयसंआयस (२.१)
परिघंपरिघ (२.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
तानितद् (२.३)
रक्षांस्यसूदयम्रक्षस् (२.३)–असूदयम् (√सूदय् लङ् उ.पु. )
ततस्तन्नगरद्वारंततस् (अव्ययः)–तद् (२.१)–नगर–द्वार (२.१)
वेगेनाप्लुतवान्वेग (३.१)–आप्लुतवत् (√आ-प्लु + क्तवतु, १.१)
अहम्मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

संरि घं गृह्य
तानि क्षांस्य सू यम्
स्तन्न द्वा रं
वे गे नाप्लु वा हम्