५.५६.३०

तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ।
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ॥

पदच्छेदः

तस्मिन्मुहूर्तेतद् (७.१)–मुहूर्त (७.१)
(अव्ययः)
पुनर्पुनर् (अव्ययः)
बभूवाङ्गुष्ठसंमितःबभूव (√भू लिट् प्र.पु. एक.)–अङ्गुष्ठ–संमित (√सम्-मा + क्त, १.१)
अभिपत्याशुअभिपत्य (√अभि-पत् + ल्यप्)–आशु (२.१)
तद्तद् (२.१)
वक्त्रंवक्त्र (२.१)
निर्गतोनिर्गत (√निः-गम् + क्त, १.१)
ऽहंमद् (१.१)
ततःततस् (अव्ययः)
क्षणात्क्षण (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्मु हू र्तेपु
र्ब भू वा ङ्गुष्ठ संमि तः
भि त्याशु द्व क्त्रं
निर्ग तो ऽहं तःक्ष णात्